________________ मानसश्च द्विधा शुद्धप्रवृत्त्याऽसन्निरोधतः / . छद्मस्थानामयं प्रायः सकलोऽन्यानुवृत्तितः अर्हत्सिद्धकुलाचार्योपाध्यायस्थविरेषु च / गणसङ्घक्रियाधर्मज्ञानज्ञानिगणिष्वपि // 7 // अनाशातनया भक्त्या बहुमानेन वर्णनात् / द्विपञ्चाशद्विधः प्रोक्तो द्वितीयश्चौपचारिकः ... // 8 // एकस्याशातनाप्यत्र सर्वेषामेव तत्त्वतः / अन्योऽन्यमनुविद्धा हि तेषु ज्ञानादयो गुणाः // 9 // नूनमल्पश्रुतस्यापि गुरोराचारशालिनः / / हीलना भस्मसात्कुर्याद् गुणं वह्निरिवेन्धनम् // 10 // शक्त्यग्रज्वलनव्यालसिंहक्रोधातिशायिनी / अनन्तदुःखजननी कीर्तिता गुरुहीलना // 11 // पठेद्यस्यान्तिके धर्मपदान्यस्यापि सन्ततम् / कायवाङ्मनसां शुद्ध्या कुर्याद्विनयमुत्तमम् पर्यायेण विहीनोऽपि शुद्धज्ञानगुणाधिकः / ज्ञानप्रदानसामर्थ्यादतो रत्नाधिकः स्मृतः शिल्पार्थमपि सेवन्ते शिल्पाचार्यं जनाः किल / / धर्माचार्यस्य धर्मार्थं किं पुनस्तदतिक्रमः // 14 // ज्ञानार्थं विनयं प्राहुरपि प्रकटसेविनः / अत एवापवादेनान्यथा शास्त्रार्थबाधनम् // 15 // न चैवमस्य भावत्वाद् द्रव्यत्वोक्तिविरुध्यते / सद्भावकारणत्वोक्तेर्भावस्याप्यागमाख्यया // 16 // विनयेन विना न स्याज्जिनप्रवचनोन्नतिः / पय:सेकं विना किं वा वर्धते भुवि पादपः // 17 // 210