________________ // 21 // = // 22 // = // 23 // = // 24 // = // 25 // = // 26 // तारकं सर्वविषयं सर्वथाविषयाक्रमम् / शुद्धिसाम्येन कैवल्यं ततः पुरुषसत्त्वयोः इह सिद्धिषु वैचित्र्ये बीजं कर्मक्षयादिकम् / संयमश्चात्रं सदसत्प्रवृत्तिविनिवृत्तितः प्रायश्चित्तं पुनर्योगः प्राग्जन्मकृतकर्मणाम् / अब्धीनां निश्चयादन्तःकोटाकोटिस्थितेः किल निकाचितानामपि यः कर्मणां तपसा क्षयः / सोऽभिप्रेत्योत्तमं योगमपूर्वकरणोदयम् अपि क्रूराष्णि कर्माणि क्षणाद्योगः क्षिणोति हि / ज्वलनो ज्वालयत्येव कुटिलानपि पादपान् दृढप्रहारिशरणं चिलातीपुत्ररक्षकः / अपि पापकृतां योगः पक्षपातान्न शङ्कते अहर्निशमपि ध्यातं योग इत्यक्षरद्वयम् / . अप्रवेशाय पापानां ध्रुवं वज्रार्गलायते आजीविकादिनार्थेन योगस्य च विडम्बना / पवनाभिमुखस्थस्य ज्वलनज्वालनोपमा योगस्पृहापि संसारतापव्ययतपात्ययः / महोदयसरस्तीरसमीरलहरीलवः योगानुग्राहको योऽन्यैः परमेश्वर इष्यते / अचिन्त्यपुण्यप्राग्भारयोगानुग्राह्य एव सः भस्तो भरतक्षोणी भुञ्जानोऽपि महामतिः / तत्कालं योगमाहात्म्याबुभुजे केवलश्रियम् पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता / . योगप्रभावतः प्राप मरुदेवा परं पदम् = // 27 // = // 28 // = // 29 // // 30 // // 31 // // 32 // 203