________________ // 9 // = . . = = क्षुत्तृव्ययः कण्ठकूपे कूर्मनाड्यामचापलम् / मूर्धज्योतिषि सिद्धानां दर्शनं च प्रकीर्तितम् प्रातिभात् सर्वतः संविच्चेतसो हृदये तथा / स्वार्थे संयमतः पुंसि भिन्ने भोगात्परार्थकात् // 10 // समाधिविघ्ना व्युत्थानसिद्धयः प्रातिभं ततः / श्रावणं वेदनादर्शास्वादवार्ताश्च वित्तयः // 11 // बन्धकारणशैथिल्यात् प्रचारस्य च वेदनात् / चित्तस्य स्यात् परपुरप्रवेशो योगसेविन, समानस्य जयाद्धामोदानस्याबाद्यसङ्गता / . दिव्यं श्रोत्रं पुनः श्रोत्रव्योम्नोः संबन्धसंयमात् // 13 // लघुतूलसमापत्त्या कायव्योम्नोस्ततोऽम्बरे / गतिर्महाविदेहात: प्रकाशावरणक्षयः / स्थूलादिसंयमाद्भूतजयोऽस्मादणिमादिकम् / कायसंपच्च तद्धर्मानभिघातश्च जायते // 15 // संयमाद्ग्रहणादीनामिन्द्रियाणां जयस्ततः / . मनोजवो विकरणभावश्च प्रकृतेर्जयः / // 16 // स्थितस्य सत्त्वपुरुषान्यताख्यातौ च केवलम् / / Toशालाशितलमेव च सार्वज्यं सर्वभावानामधिष्ठातृत्वमेव च // 17 // स्मृता सिद्धिर्विशोकेयं तद्वैराग्याच्च योगिनः / . दोषबीजक्षये नूनं कैवल्यमुपदर्शितम् // 18 // असङ्गश्चास्मयश्चैव स्थितावुपनिमन्त्रणे / बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलान्यथा // 19 // स्यात् क्षणक्रमसंबन्धसंयमाद्यद्विवेकजम् / / ज्ञानं जात्यादिभिस्तच्च तुल्ययोः प्रतिपत्तिकृत् / // 20 // 202