________________ // 30 // सुखमुद्दिश्य तदुःखनिवृत्त्या नान्तरीयकम् / प्रक्षयः कर्मणामुक्तो युक्तो ज्ञानक्रियाध्वना क्लेशाः पापानि कर्माणि बहुभेदानि नो मते / योगादेव क्षयस्तेषां न भोगादनवस्थितेः ततो निरुपमं स्थानमनन्तमुपतिष्ठते / भवप्रपञ्चरहितं परमानन्दमेदुरम् // 31 // // 32 // योगमाहात्म्यद्वात्रिंशिका // 26 // शास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी / अपायशमनो योगो योगः कल्याणकारणम् संसारवृद्धिर्धनिनां पुत्रदारादिना यथा / शास्त्रेणापि तथा योगं विना हन्त विपश्चिताम् इहापि लब्धयश्चित्राः परत्र च महोदयः / . परात्मायत्तता चैव योगकल्पतरोः फलम् // 3 // योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् / दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् // 4 // अतीतानागतज्ञानं परिणामेषु संयमात् / शब्दार्थधीविभागे च सर्वभूतरुतस्य धीः // 5 // संस्कारे पूर्वजातीनां प्रत्यये परचेतसः / शक्तिस्तम्भे तिरोधानं कायरूपस्य संयमात् // 6 // संयमात् कर्मभेदानामरिष्टेभ्योऽपरान्तधीः / मैत्र्यादिषु बलान्येषां हस्त्यादीनां बलेषु च सूर्ये च भुवनज्ञानं ताराव्यूहे गतिविधौ / ध्रुवे. च तद्गते भिचक्रे व्यूहस्य वर्मणः // 7 // // 8 // 201