________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // अविद्या चास्मिता चैव रागद्वेषौ तथापरौ / पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः विपर्यासात्मिकाविद्यास्मिता दृग्दर्शनैकता / रागस्तृष्णा सुखोपाये द्वेषो दुःखाङ्गनिन्दनम् विदुषोऽपि तथारूढः सदा स्वरसवृत्तिकः / शरीराद्यवियोगस्याभिनिवेशोऽभिलाषतः एभ्यः कर्माशयो दृष्टादृष्टजन्मानुभूतिभाक् / तद्विपाकश्च जात्यायु गाख्यः संप्रवर्तते. परिणामाच्च तापाच्च संस्काराद्विविधोऽप्ययम् / गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः इत्थं दृग्दृश्ययोगात्माऽविद्यको भवविप्लवः / नाशान्नश्यत्यविद्याया इंति पातञ्जला जगुः नैतत्साध्वपुमर्थत्वात् पुंसः कैवल्यसंस्थितेः / क्लेशाभावेन संयोगाजन्मोच्छेदो हि गीयते तात्त्विको नात्मनो योगो ह्येकान्तापरिणामिनः / कल्पनामात्रमेवं च क्लेशास्तद्धानमप्यहो नृपस्येवाभिधानाद्यः सातबन्धः प्रकीर्तितः / अहिशङ्काविषज्ञानाच्चेतरोऽसौ निरर्थकः पुरुषार्थाय दुःखेऽपि प्रवृत्तेर्ज्ञानदीपतः / हानं चरमदुःखस्य क्लेशस्येति तु तार्किकाः ब्रूते हन्त विना कश्चिददोऽपि न मदोद्धतम् / सुखं विना न दुःखार्थं कृतकृत्यस्य हि श्रमः चरमत्वं च दुःखत्वव्याप्या जातिर्न जातितः / . तच्छरीरप्रयोज्यातः साङ्कर्यान्नान्यदर्थवत् 200 // 24 // // 25 // // 26 // // 27 // // 28 // .. // 29 //