________________ // 6 // // 8 // // 9 // // 10 // / // 11 // नैरात्म्यायोगतो नैतदभावक्षणिकत्वयोः / आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना . वक्राद्यभावतश्चैव कुमारीसुतबुद्धिवत् / विकल्पस्याप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् द्वितीयेऽपि क्षणादूर्ध्वं नाशादन्याप्रसिद्धितः / अन्यथोत्तरकार्याङ्गभावाविच्छेदतोऽन्वयात् स्वनिवृत्तिस्वभावत्वे न क्षणस्यापरोदयः / अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसंगता उभयैकस्वभावत्वे न विरुद्धोऽन्वयोऽपि हि / न च तद्धेतुकः स्नेहः किं तु कर्मोदयोद्भवः ध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपप्लवात् / . ग्राह्याकार इव ज्ञानेऽन्यथा तत्रापि तद्भवेत् विवेकख्यातिरुच्छेत्री क्लेशानामनुपप्लवा / सप्तधा प्रान्तभूप्रज्ञा कार्यनित्तविमुक्तिभिः बलान्नश्यत्यविद्यास्या उत्तरेषामियं. पुनः / प्रसुप्ततनुविच्छिन्नोदाराणां क्षेत्रमिष्यते स्वकार्यं नारभन्ते ये चित्तभूमौ स्थिता अपि / विना प्रबोधकबलं ते प्रसुप्ताः शिशोरिव भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः / / तनवोऽतिबलापेक्षा योगाभ्यासवतो यथा अन्येनोच्चैर्बलवताभिभूतस्वीयशक्तयः / तिष्ठन्तो हन्त विच्छिन्ना रागो द्वेषोदये यथा सर्वेषां सन्निधि प्राप्ता उदाराः सहकारिणाम् / निवर्तयन्तः स्वं कार्यं यथा व्युत्थानवर्तिनः 199 // 12 // // 13 // // 14 // // 15 // // 16 // // 17 //