________________ // 4 // // 6 // // 7 // // 8 // अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् / त्रपायै भवचेष्टा स्याद्बालक्रीडोपमाखिला तत्त्वमत्र परंज्योतिस्विभावकमूर्तिकम् / विकल्पतल्पमारूढः शेषः पुनरुपप्लव: भवभोगिफणाभोगो भोगोऽस्यामवभासते / फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्यपापयोः धर्मादपि भवन् भोगः प्रायोऽनय देहिनाम् / चन्दनादपि संभूतो दहत्येव हुताशनः / स्कन्धात्स्कन्धान्तरारोपे भारस्येव न तात्त्विकी / इच्छाया विरतिर्भोगात्तत्संस्कारानतिक्रमात् धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् / नान्यमुत् स्थिरभावेन मीमांसा च हितोदया देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः / प्रियो भवति भूतानां धर्मेकाग्रमनास्तथा अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः / श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्यथोदितम् मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् / / तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् / भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् / मायोदकदृढावेशस्तेन यातीह कः पथा स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् / / मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः 196 ... // 9 // // 10 // // 11 // // 12 // // 13 // // 14 //