________________ // 24 // = // 25 // = // 26 // = // 27 // आदर: करणे प्रीतिरविघ्नः संपदागमः / जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः / कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये असंमोहसमुत्थानि योगिनामाशु मुक्तये / / भेदेऽपि तेषामेकोऽध्वा जलघौ तीरमार्गवत् तस्मादचित्रभक्त्याप्याः सर्वज्ञा न भिदामिताः / चित्रा गीर्भववैद्यानां तेषां शिष्यानुगुण्यतः तयैव बीजाधानादेर्यथाभव्यमुपक्रिया / अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि भेदतः चित्रा वा देशना तत्तन्नयैः कालादियोगतः / यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः / . अभियुक्ततरैरन्यैरन्य एवोपपद्यते / ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः / कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे / प्रायो धर्मा अपि त्याज्या: परमानन्दसंपदि // 28 // // 29 // // 30 // // 31 // // 32 // . सदृष्टिद्वात्रिंशिकां // 24 // प्रत्याहारः स्थिरायां स्याद्दर्शनं नित्यमभ्रमम् / तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् विषयासंप्रयोगेऽन्तःस्वरूपानुकृतिः किल / प्रत्याहारो हृषीकाणामेतदायत्तताफल: // 2 // 15