________________ // 12 // // 13 // // 14 // // 16 // ! 17 // तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा / / अतीन्द्रियार्थसिद्ध्यर्थं नावकाशोऽस्य कुत्रचित् शास्त्रस्यैवावकाशोऽत्र कुतर्काग्रहतस्ततः / शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद्भवेत् तत्त्वतः शास्त्रभेदश्च न शास्तृणामभेदतः / मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः सर्वज्ञो मुख्य एकस्तस्प्रतिपत्तिश्च यावताम् / सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः / न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः 1 अतो न ते तमापन्ना विशिष्य भुवि केचन सर्वज्ञप्रतिपत्त्यंशमाश्रित्यामलया धिया / . निर्व्याजं तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् दूरासन्नादिभेदोऽपि तद्भूत्यत्वं निहन्ति न / एको नामादिभेदेन भिन्नाचारेष्वपि प्रभुः देवेषु योगशास्त्रेषु चित्राचित्रविभागतः / / भक्तिवर्णनमप्येवं युज्यते तदभेदतः संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् / तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् चित्रा चायेषु तद्रागतदन्यद्वेषसंगता / अचित्रा चरमे त्वेषा शमसाराखिलैव हि इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः / फलं चित्रं प्रयच्छन्ति तथाबुद्ध्यादिभेदतः बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते / रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात् // 18 // = . // 19 // // 20 // = = // 22 // // 23 // 114