________________ कुतर्कग्रहनिवृत्तिद्वात्रिंशिका // 23 // जीयमानेऽत्र राजीव चमूचरपरिच्छदः / निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः शमारीमानलज्वाला हिमानी ज्ञानपङ्कजे / श्रद्धाशल्यं स्मयोल्लासः कुतर्कः सुनयार्गला // 2 // कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिमिच्छताम् / युक्तः पुनः श्रुते शीले समाधौ शुद्धचेतसाम् उक्तं च योगमार्ग स्तपोनिधूतकल्मषैः / भावियोगिहितायोच्चैर्मोहदीपसमं वचः // 4 // वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा / तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ / // 5 // विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् / तद्योजनामयश्चात्र कुतर्कः किमनेन तत् . // 6 // जातिप्रायश्च बाध्योऽयं प्रकृतान्यविकल्पनात् / हस्ती हन्तीतिवचने प्राप्ताप्राप्तविकल्पवत् स्वभावोत्तरपर्यन्त एषोऽत्रापि च तत्त्वतः / नार्वाग्दृग्ज्ञानगम्यत्वमन्यथान्येन कल्पनात् // 8 // अपां दाहस्वभावत्वे दर्शिते दहनान्तिके 1 विप्रकृष्ठेऽप्ययस्कान्ते स्वार्थशक्तेः किंमुत्तरम् // 9 // दृष्टान्तमात्रसौलभ्यात्तदयं केन बाध्यताम् / स्वभावबाधने नालं कल्पनागौरवादिकम् // 10 // द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः / धियां निरालम्बनतां कुतर्कः साधयत्यपि // 11 // // 7 // 163