________________ = = // 10 // // 11 // = // 12 // // 13 // // 14 // नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः / शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् / परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः असत्तृष्णात्वराभावात् स्थिरं च सुखमासनम् / प्रयत्नश्लथतानन्त्यसमापत्तिबलादिह अतोऽन्तरायविजयो द्वन्द्वानभिहति परा / दृष्टदोषपरित्यागः प्रणिधानपुरःसरः कान्ताजुषो. विदग्धस्य दिव्यगेयश्रुतौ यथा / यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे / श्रुताभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः योगारम्भ इहाक्षेपात् स्यादुपायेषु कौशलम् / उप्यमाने तरौ दृष्टा पय:सेकेन पीनता . प्राणायामवती दीप्रा योगोत्थानविवर्जिता / तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता रेचक: स्याबहिर्वृत्तिरन्तर्वृत्तिश्च पूरकः / कुम्भकः स्तम्भवृत्तिश्च प्राणायामस्त्रिधेत्ययम् धारणायोग्यता तस्मात् प्रकाशावरणक्षयः / अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यतानुगम् रेचनाद्बाह्यभावानामन्तर्भावस्य पूरणात् / कुम्भनान्निश्चितार्थस्य प्राणायामश्च भावतः प्राणेभ्योऽपि गुरुर्धर्मः प्राणायामविनिश्चयात् / प्राणांस्त्यजन्ति धर्मार्थं न धर्मं प्राणसंकटे // 15 // // 16 // = // 17 // // 18 // // 19 // // 20 // 191