________________ // 30 // यथौषधीषु पीयूषं द्रुमेषु स्वर्दुमो यथा / . गुणेष्वपि सतां योगस्तथा मुख्य इहेष्यते विनैनं मतिमूढानां येषां योगोत्तमस्पृहा / तेषां हन्त विना नावमुत्तितीर्षा महोदधेः तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा / समारुह्य गुणस्थानं परमानन्दमश्नुते // 31 // . . // 32 // // 3 // तारादित्रयद्वात्रिंशिका // 22 // . तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभाः / अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि / देवताप्रणिधानं च योगाचार्यैरुदाहृताः ' // 2 // शौचभावनया स्वाङ्गजुगुप्साऽन्यैरसंगमः / सत्त्वशुद्धिः सौमनस्यैकाग्र्याक्षजययोग्यता सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् / . तपसोऽङ्गाक्षयोः सिद्धिः समाधिः प्रणिधानतः // 4 // विज्ञाय नियमानेतानेवं योगोपकरिणः / अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च / यथाशक्त्युपचारश्च बहुमानश्च योगिषु भयं न भवजं तीव्र हीयते नोचितक्रिया / न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया // 7 // स्वकृत्ये विकले त्रासो जिज्ञासा सस्पृहाधिके / दुःखोच्छेदार्थिनां चित्रे कथंताधीः परिश्रमे // 8 // 190