________________ // 3 // = = // 4 // // 5 // // 6 // // 7 = = // 8 // = = पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना / महाभूतेन्द्रियार्थेषु सविकल्पोऽन्यथापरः तन्मात्रान्तःकरणयोः सूक्ष्मयोर्भावना पुनः / दिक्कालधर्मावच्छेदात् सविचारोऽन्यथापरः यदा रजस्तमोलेशानुविद्धं भाव्यते मनः / तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः / देहाहङ्कारविगमात् प्रधानमुपदर्शिनः सत्त्वं रजस्तमोलेशानाक्रान्तं यत्र भाव्यते / स सास्मितोऽत्र चिच्छक्तिसत्त्वयोर्मुख्यगौणता अत्रैव कृततोषा ये परमात्मानवेक्षिणः / चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् गृहीतृग्रहणग्राह्यसमापत्तित्रयं किल / अत्र सास्मितसानन्दनिर्विचारान्तविश्रमम् . मणेरिवाभिजातस्य क्षीणवृत्तेरसंशयम् / तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता संकीर्णा सा च शब्दार्थज्ञानैरपि विकल्पतः / सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा .. अध्यात्म निर्विचारत्ववैशारद्ये प्रसीदति / ऋतम्भरा ततः प्रज्ञा श्रुतानुमितितोऽधिका तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः / असंप्रज्ञातनामा स्यात् समाधिस्तन्निरोधत: विरामप्रत्ययाभ्यासान्नेति नेति निरन्तरात् / ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते . . . 185 = 9 // // 10 // // 11 // // 12 // // 13 // // 14 //