________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् / आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः तात्त्विकोऽतात्त्विकश्चेति सामान्येन द्विधाप्ययम् / तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः / अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु सकृदावर्तनादीनामतात्त्विक उदाहृतः / प्रत्यपायफलप्रायस्तथावेषादिमात्रतः शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च / हन्त ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते अपायाभावभावाभ्यां सानुबन्धोऽपरश्च सः / निरुपक्रमकर्मैवापायो योगस्य बाधकम् . बहुजन्मान्तरकर: सापायस्यैव साश्रवः / अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः / शास्त्रेणाधीयते चायं नासिद्धेर्गोत्रयोगिनाम् / सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया / योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये / कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि गपरे सर्वात्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः / दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः / शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः 183 // 18 // // 19 // // 20 // // 21 // // 22 // . // 23 //