________________ r... m // 4 // योगविवेकद्वात्रिंशिका // 19 // इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् / गीयते योगशास्त्रज्ञैनिर्व्याजं यो विधीयते चिकीर्षोः श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः / . . कालादिविकलो योग इच्छायोग उदाहृतः // 2 // साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः / नत्त्वेच्छायोगत इति श्रवणादत्र मज्जति यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धावबोधतः / शास्त्रयोगस्त्वखण्डाराधनादुपदिश्यते शास्त्रेण दर्शितोपायः फलपर्यवसायिना / तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः / अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते // 6 // प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते / अरुणोदयकल्पं हि प्राच्यं तत्केवलार्कतः रात्रेर्दिनादपि पृथग्यथा नो वारुणोदयः / श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि / इष्यते गमकत्वं चामुष्य व्यासोऽपि यज्जगौ आगमेनानुमानेन योगाभ्यासरसेन च / त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् // 10 // द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः / .. क्षायोपशमिका धर्मा योगाः कायादिकर्म तु.. // 11 // 182 . // 7 // // 8 // 0