________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // वशिता चैव सर्वत्र भावस्तैमित्यमेव च / अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः / व्यवहारकुदृष्ट्योच्चैरिष्टानिष्टेषु वस्तुषु / कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते विनतया न हि ध्यानं ध्यानेनेयं विना च न / ततः प्रवृत्तचक्रं स्याद्वयमन्योऽन्यकारणात् ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा / अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् / अपुनर्भावतो रोधः प्रोच्यते वृत्तिसंक्षयः केवलज्ञानलाभश्च शैलेशीसंपरिग्रहः / मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् वृत्तिरोधोऽपि योगश्चेद्भिद्यते पञ्चधाऽप्ययम् / . मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः प्रवृत्तिस्थिरताभ्यां हि मनोगुप्तिद्वये. किल / . भेदाश्चत्वार इष्यन्ते तत्रान्त्यायां तथान्तिमः विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् / आत्मारामं मनश्चेति मनोगुप्तिस्त्रिधोदिता अन्यासामवतारोऽपि यथायोगं विभाव्यताम् / यतः समितिगुप्तीनां प्रपञ्चो योग. उत्तमः उपायत्वेऽत्र पूर्वेषामन्त्य एवावशिष्यते / तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् / सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // ..... . 181