________________ // 10 // // 11 // * // 12 // // 13 // // 14 // अभ्यासो वृद्धिमानस्य भावना बुद्धिसंगतः / निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम् ज्ञानदर्शनचारित्रतपोवैराग्यभेदतः / इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् उपयोगे विजातीयप्रत्ययाव्यवधानभाक् / शुभैकप्रत्ययो ध्यानं सूक्षाभोगसमन्वितम् दोद्वेगभ्रमोत्थानक्षेपांसङ्गान्यमुद्रुजाम् / त्यागादष्टपृथचित्तदोषाणामनुबन्ध्यदः प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः / मुख्यो हेतुरदश्चात्र कृषिकर्मणि वारिवत् स्थितस्यैव स. उद्वेगो. योगद्वेषात्ततः क्रिया / राजविष्टिसमा जन्म बाधते योगिनां कुले भ्रमोन्तर्विप्लवस्तत्र न कृताकृतवासना / तां विना योगकरणं प्रस्तुतार्थविरोधकृत् प्रशान्तवाहिताभाव उत्थानं करणं ततः / त्यागानुरूपमत्यागं निर्वेदादतथोदयम् क्षेपोऽन्तरान्तरान्यत्र चित्तन्यासोऽफलावहः / शालेरपि फलं नो यदृष्टमुत्खननेऽसकृत् . आसङ्गः स्यादभिष्वङ्गस्तत्रासङ्गक्रियैव न / ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः विहितेऽविहिते वार्थेऽन्यत्र मुत्प्रकृतात्किल / इष्टेऽर्थेऽङ्गारवृष्ट्याभात्यनादरविधानतः रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् / एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् 180 // 15 // . // 16 // . // 17 // // 18 // // 20 //