________________ // 7 // // 8 // // 9 // // 10 // // 11 // अनुत्कटत्वं गौणत्वमुत्कटत्वं च मुख्यता / द्वयं प्रत्येकजन्यत्वव्यपदेशनियामकम् उत्कटेन हि दैवेन कृतं दैवकृतं विदुः / तादृशेन च यत्नेन कृतं यत्नकृतं जनाः अभिमानवशाद्वायं भ्रमो विध्यादिगोचरः / निविष्टबुद्धिरेकत्र नान्यद्विषयमिच्छति यदीष्यते परापेक्षा स्वोत्पत्तिपरिणामयोः / तर्हि कार्येऽपि सा युक्ता न युक्तं दृष्टबाधनम् विशिष्य कार्यहेतुत्वं कार्यभेदे भवेदपि / अन्यथा त्वन्यथासिद्धिरन्यत्रातिप्रसङ्गकृत् क्वचित्कर्मेव यत्नोऽपि व्यापारबहुलः क्वचित् / अन्ततः प्राग्भवीयोऽपि द्वावित्यन्योऽन्यसंश्रयौ कर्मैव ब्रुवते केचित् कालभेदात् फलप्रदम् / तन्नैहिकं यतो यत्नः कर्म तत्पौर्वदेहिकम् भवान्तरीयं तत्कार्यं कुरुते नैहिकं विना / द्वारत्वेन च गौणत्वमुभयत्र न दुर्वचम् अपेक्ष्ये कालभेदे च हेत्वैक्यं परिशिष्यते / दृष्टहानिरदृष्टस्य कल्पनं चातिबाधकम् दृष्टेनैवोपपत्तौ च नादृष्टमिति केचन / .. फले. विशेषात्तदसत्तुल्यसाधनयोर्द्वयोः न चापि क्षणिकं कर्म फलायादृष्टमन्तरा / वैयर्थ्य च प्रसज्येत प्रायश्चित्तविधेरपि विशेषश्चात्र बलवदेकमन्यग्निहन्ति यत् / व्यभिचारश्च नाप्येवमपेक्ष्य प्रतियोगिनम् . // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // 177