________________ // 18 // // 19 // =.... // 20 // = // 22 // // 23 // = कर्मणा कर्ममात्रस्य नोपघातादि तत्त्वतः / स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते / उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया / बाध्यबाधकभावः स्यात्सम्यग्न्यायाविरोधत: प्रतिमायोग्यतातुल्यं कर्मानियतभावकम् / बाध्यमाहुः प्रयत्नेन सैव प्रतिमयेत्यपि प्रतिमायोग्यतानाशः प्रतिमोत्पत्तितो भवेत् / , - कर्मणो विक्रिया यत्नाद्बाध्यबाधकतेत्यसौ प्रतिमाया अनियमेऽप्यक्षता योग्यता यथा / फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुवम् / योग्यतायोग्यता वेति न चैषा लोकसिद्धितः कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः / फलभेदः कथं नु स्यात्तथाशास्त्रादिसंगतः शुभात्ततस्त्वसौ भावो हन्तायं तत्स्वभावभाक् / एवं किमत्र सिद्धं स्यादत एवास्त्वतो ह्यदः इत्थं परस्परापेक्षावपि द्वौ बाध्यबाधकौ / प्रायेऽत्र चरमावर्ते दैवं यत्नेन बाध्यते एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा / औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् उपदेशस्त्वनेकान्तो हेतुरत्रोपयुज्यते / गुणमारभमाणस्य पततो वा स्थितस्य न आधिक्यस्थैर्यसिद्ध्यर्थं चक्रभ्रामकदण्डवत् / असौ व्यञ्जकताप्यस्य तद्बलोपनतिक्रिया // 24 // / // 25 // // 26 // // 27 // .. // 28 // // 29 // 108