________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // योगातिशयतश्चायं स्तोत्रकोटिगुणः स्मृतः / योगदृष्ट्या बुधैर्दृष्टो ध्यानविश्रामभूमिका माध्यस्थ्यमवलम्ब्यैव देवतातिशयस्य च / सेवा सर्वैर्बुधैरिष्टा कालातीतोऽपि यज्जगौ अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् / अभिधानादिभेदेऽपि तत्त्वनीत्या व्यवस्थितः मुक्तो बुद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः / तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् अनादिशुद्ध इत्यादिर्यो भेदों यस्य कल्प्यते / तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः / प्रायो विरोधतश्चैव फलाभेदाच्च भावतः अविद्याक्लेशकर्मादि यतश्च भवकारणम् / ततः प्रधानमेवैतत् संज्ञाभेदमुपागतम् अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथा तथा / गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थक: ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् / सामान्यमनुमानस्य यतश्च विषयो मतः आस्थितं चैतदाचार्यैस्त्याज्ये कुचितिकाग्रहे / शास्त्रानुसारिणस्तर्कान्नामभेदानुपग्रहात् अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति / तथैवातीन्द्रियं वस्तु छद्मस्थस्यापि तत्त्वतः - हस्तस्पर्शसमं शास्त्रं तत एवं कथञ्चन / अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् . // 21 // // 22 // // 23 // // 24 // // 26 // 105