________________ // 3 // // 4 // // 6 // // 7 // // 8 // सात्त्विकः परिणामोऽत्र काष्ठाप्राप्ततयेष्यते / नाक्षप्रणालिकाप्राप्त इति सर्वज्ञतास्थितिः ऋषीणां कपिलादीनामप्ययं परमो गुरुः / तदिच्छया जगत्सर्वं यथाकर्म विवर्तते नैतद्युक्तमनुग्राह्ये तत्स्वभावत्वमन्तरा। नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि उभयोस्तत्स्वभावत्वभेदे च परिणामिता / ' अत्युत्कर्षश्च धर्माणामन्यत्रातिप्रसञ्जकः आर्थं व्यापारमाश्रित्य तदाज्ञापालकात्मकम् / युज्यते परमीशस्यानुग्रहस्तन्त्रनीतितः एवं च प्रणवेनैतज्जपात् प्रत्यूहसंक्षयः / , प्रत्यक्चैतन्यलाभश्चेत्युक्तं युक्तं पतञ्जले: प्रत्यूहा व्याधयः स्थानं प्रमादालस्यसंभ्रमाः / सन्देहाविरती भूम्यलाभश्चाप्यनवस्थितिः धातुवैषम्यजो व्याधिः स्थानं चाकर्मनिष्ठता / प्रमादोऽयत्न आलस्यमौदासीन्यं च हेतुषु विभ्रमो व्यत्ययज्ञानं सन्देह: स्यान्नवेत्ययम् / अखेदो विषयावेशाद्भवेदविरतिः किल भूम्यलाभः समाधीनां भुवोऽप्राप्तिः कथंचन / लाभेऽपि तत्र चित्तस्याप्रतिष्ठा त्वनवस्थितिः रजस्तमोमयाद्दोषाद्विक्षेपाश्चेतसो ह्यमी / सोपक्रमा जपान्नाशं यान्ति शक्तिहति परे .. प्रत्यक्चैतन्यमप्यस्मादन्तर्योति:प्रथामयम् / बहिर्व्यापाररोधेन जायमानं मतं हि नः 104 // 9 // - // 10 // // 11 // // 12 // // 13 // . // 14 //