________________ // 24 // // 25 // // 26 // // 27 // नैवं तदुत्तरे विप्रेऽव्याप्तेः प्राक्प्रतिपत्तितः / प्रामाण्योपगमात्तन्न प्राक् तत्रेति न सेति चेत् यत्किञ्चित्तद्ग्रहे पश्चात् प्राक् च काकस्य जन्मनः / विप्रजन्मान्तराले स्यात्सा ध्वंसप्रागभावतः जीववृत्तिविशिष्टाङ्गाभावाभावग्रहोऽप्यसन् उत्कर्षश्चापकर्षश्चाव्यवस्थो यदपेक्षया अपि चाव्याप्त्यतिव्याप्ती कायंदेशविकल्पतः / आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः नैवं विशिष्य तात्पर्याग्रहे तन्मानताऽग्रहात् / सामान्यतः स्वतात्पर्ये प्रामाण्यं नोऽपि संमतम् मिथ्यादृष्टिगृहीतं हि मिथ्या सम्यगपि श्रुतम् / सम्यदृष्टिगृहीतं तु सम्यग्मिथ्येति नः स्थितिः तात्पर्य वः स्वसिद्धान्तोपजीव्यमिति चेन्मतिः / ननु युक्त्युपजीव्यत्वं द्वयोरप्यविशेषतः उद्भावनमनिग्राह्यं युक्तेरेव हि यौक्तिके / / प्रामाण्ये च न वेदत्वं सम्यक्त्वं तु प्रयोजकम् शिष्टत्वमुक्तमत्रैव भेदेन प्रतियोगिनः / तमानुभविकं बिभ्रत् ‘परमानन्दवत्यतः // 28 // // 29 // // 30 // // 31 // // 32 // : ईशानुग्रहविचारद्वात्रिंशिका // 16 // महेशानुग्रहात्केचिद्योगसिद्धि प्रचक्षते / क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते // 1 // ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः / ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् // 2 // . 173