________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // परार्थरसिको धीमान् मार्गगामी महाशयः / . गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोरपि बोधिप्रधानः सत्त्वो वा सद्बोधि वितीर्थकृत् / तथाभव्यत्वतो बोधिसत्त्वो हन्त सतां मतः तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः / तीर्थकृत्त्वमवाप्नोति परं कल्याणसाधनम् संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः / आत्मार्थसंप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली अंशतः क्षीणदोषत्वाच्छिष्टत्वमपि युक्तिमत् / / अत्रैव हि परोक्तं तु तल्लक्षणमसंगतम् वेदप्रामाण्यमन्तृत्वं बौद्धे ब्राह्मणताडिते / अतिव्याप्तं द्विजेऽव्याप्तं स्वापे स्वारसिकं’ च तत् तदभ्युपगमाद्यावन्न तद्व्यत्ययमन्तृता / तावच्छिष्टत्वमिति चेत्तदप्रामाण्यमन्तरि. अजानति च वेदत्वमव्याप्तं चेद्विवक्ष्यते / . वेदत्वेनाभ्युपगमस्तथापि स्याददः किल / ब्राह्मणः पातकात्प्राप्तः काकभावं तदापि हि / / व्याप्नोतीशं च नोत्कृष्टज्ञानावच्छेदिका तनुः अन्याङ्गरहितत्वं च तस्य काकभवोत्तरम् / देहान्तराग्रहदशामाश्रित्यातिप्रसक्तिमत् अवच्छेदकदेहानामपकृष्टधियामथ / संबन्धविरहो यावान् प्रामाण्योपगमे सति अप्रामाण्यानुपगमस्तावत्कालीन एव हि / शिष्टत्वं काकदेहस्य प्रागभावस्तदा च न // 18 // // 19 // // 20 // // 21 // // 22 // 102