________________ सम्यग्दृष्टिद्वात्रिंशिका // 15 // लक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः / शुश्रूषाधर्मरागाभ्यां गुरुदेवादिपूजया भोगिकिन्नरगेयादिविषयाधिक्यमीयुषी / शुश्रूषाऽस्य न सुप्तेशकथार्थविषयोपमा / // 2 // अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा / विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा // 3 // धर्मरागोऽधिको भावाद्भोगिनः स्त्यादिरागतः / प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया // 4 // तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् / पूयिकाद्यपि यद्भुङ्क्ते घृतपूर्णप्रियो द्विजः गुरुदेवादिपूजाऽस्य त्यागात्कार्यान्तरस्य च / भावसारा विनिर्दिष्टा निजशक्त्यनतिकमात् स्यादीदृक्करणे चान्त्ये सत्त्वानां परिणामतः / त्रिधा यथाप्रवृत्तं तदपूर्वं चानिवति च // 7 // ग्रन्थिं यावद्भवेदाद्यं द्वितीयं तदतिक्रमे / भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् पतितस्यापि नामुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् / स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् // 9 // एवं च यत्परैरुक्तं बोधिसत्त्वस्य लक्षणम् / विचार्यमाणं सन्नीत्या तदप्यत्रोपपद्यते // 10 // तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि / इत्युक्तेः कायपात्येव चित्तपाती न स स्मृतः // 11 // // 8 // 101