________________ = // 10 // // 11 // // 12 // // 13 // // 14 // = क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः / बीजं रूपं फलं चायमूहते भवगोचरम् / भेदे हि प्रकृतेर्नैक्यमभेदे च न भिन्नता / आत्मनां स्यात्स्वभावस्याप्येवं शबलतोचिता भवोऽयं दुःखगहनो जन्ममृत्युजरामयः / अनादिरप्युपायेन पृथग्भवितुमर्हति फलं भवस्य विपुल: क्लेश एव विजृम्भते / न्यग्भाव्यात्मस्वभावं हि पयो निम्बरसो यथा तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते / तत्तत्तन्त्रनयज्ञाने विशेषापेक्षयोज्ज्वलः ' / योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः / स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः गोपेन्द्रवचनादस्मादेवंलक्षणशालिनः / परैरस्येष्यते योगः प्रतिश्रोतोऽनुगत्वतः तक्रियायोगहेतुत्वाद्योग इत्युचितं वचः / मोक्षेऽतिदृढचित्तस्य भिन्नग्रन्थेस्तु भावतः अन्यसक्तस्त्रियो भर्तृयोगोऽप्यश्रेयसे यथा / तथा मुख्यकुटुम्बादिव्यापारोऽपि न बन्धकृत् / निजाशयविशुद्धौ हि बाह्यो हेतुरकारणम् / * शुश्रूषादिक्रियाऽप्यस्य शुद्धा श्रद्धानुसारिणी एतन्निश्चयवृत्त्यैव यद्योगः शास्त्रसंज्ञितः / त्रिधा शुद्धादनुष्ठानात् सम्यक्प्रत्ययवृत्तितः शास्त्रमासन्नभव्यस्य मानमामुष्मिके विधौ / सेव्यं यद्विचिकित्सायाः समाधेः प्रतिकूलता . . 170 // 15 // = // 17 // // 18 // // 19 // // 20 // =