________________ // 30 // प्रसन्नं क्रियते चेतः श्रद्धयोत्पन्नया ततः / मलोज्झितं हि कतकक्षोदेन सलिलं यथा . वीर्योल्लासस्ततश्च स्यात्ततः स्मृतिरनुत्तरा / ततः समाहितं चेतः स्थैर्यमप्यवलम्बते अधिकारित्वमित्थं चापुनर्बन्धकतादिना / मुक्त्यद्वेषक्रमेण स्यात् परमानन्दकारणम् // 31 // // 32 // अपुनर्बन्धकद्वात्रिंशिका // 14 // शुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः / / भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये अस्यैव पूर्वसेवोक्ता मुख्याऽन्यस्योपचारतः / / अस्यावस्थान्तरं मार्गपतिताभिमुखौ पुनः // 2 // योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः / अन्यत्राप्युपचारस्तु सामीप्ये बह्वभेदतः / // 3 // परिणामिनि कार्याद्धि सर्वथा नास्ति भिन्नता / तत्प्रकृत्या विनाप्यूहमन्यत्रैनां परे जगुः . // 4 // युक्तं चैतन्मले तीव्र भवासङ्गो न हीयते / / संक्लेशायोगतो मुख्या सान्यथा नेति हि स्थितिः // 5 // एष्यद्भद्रां समाश्रित्य पुंसः प्रकृतिमीदृशीम् / व्यवहारः स्थितः शास्त्रे युक्तमुक्तं ततो ह्यदः // 6 // शान्तोदात्तस्तयैव स्यादाश्रयः शुभचेतसः / धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा . // 7 // अङ्गाभावे यथा भोगोऽतात्त्विको मानहानितः / शान्तोदात्तत्वविरहे क्रियाप्येवं विकल्पजा // 8 // 168