________________ // 27 // // 28 // // 29 // मलस्तु योग्यता योगकषायाख्यात्मनो मता / अन्यथाऽतिप्रसङ्गः स्याज्जीवत्वस्याविशेषतः प्रागबन्धान्न बन्धश्चेत् किं तत्रैव नियामकम् / योग्यतां तु फलोन्नेयां बाधते दूषणं न तत् दिदृक्षा भवबीजं चाविद्या चानादिवासना / भङ्ग्येषैवाश्रिता सांख्यशैववेदान्तिसौगतैः प्रत्यावर्तं व्ययोऽप्यस्यास्तदल्पत्वेऽस्य संभवः / अतोऽपि श्रेयसां श्रेणी किं पुनर्मुक्तिरागतः न चायमेव रागः स्यान्मृदुमध्याधिकत्वतः / तत्रोपाये च नवधा योगिभेदप्रदर्शनात् द्वेषस्याभावरूपत्वादद्वेषश्चैक एव हि / रागात् क्षिप्रं क्रमाच्चातः परमानन्दसंभवः // 30 // // 31 // // 32 // // 2 // .. मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका // 13 // उक्तभेदेषु योगीन्द्रैर्मुक्त्यद्वेषः प्रसस्यते / मुक्त्युपायेषु नो चेष्टा मलनायैव यत्ततः // 1 // विषान्नतृप्तिसदृशं तद्यतो व्रतदुर्ग्रहः / .. उक्तः शास्त्रेषु शस्त्राग्निव्यालदुर्ग्रहसन्निभः ग्रैवेयकाप्तिरप्यस्माद्विपाकविरसाऽहिता / / मुक्त्यद्वेषश्च तत्रापि कारणं न क्रियैव हि // 3 // लाभार्थितयोपाये फले चाप्रतिपत्तितः / व्यापन्नदर्शनानां हि न द्वेषो द्रव्यलिङ्गिनाम् मुक्तौ च मुक्त्युपाये च मुक्त्यर्थं प्रस्थिते पुनः / / यस्य द्वेषो न तस्यैव न्याय्यं गुर्वादिपूजनम् // 5 // __165 // 4 //