________________ // 7 // .. // 8 // // 10 // // 11 // गुरुदोषवतः स्वल्पा सक्रियापि गुणाय न / भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् मुक्त्यद्वेषान्महापापनिवृत्त्या यादृशो गुणः / गुर्वादिपूजनात्ताहक् केवलान्न भवेत्क्वचित् एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते / सरुजेतरभेदेन भोजनादिगतं, यथा भवाभिष्वङ्गतस्तेनानाभोगाच्च विषादिषु / अनुष्ठानत्रयं मिथ्या द्वयं सत्यं विपर्ययात् इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते / / क्रियोचितस्य भावस्यानाभोगस्त्वतिलचनम् विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् / गुर्वादिपूजानुष्ठानमिति पञ्चविधं जगुः / विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तमारणात् / दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् संमोहादननुष्ठानं सदनुष्ठानरागतः / तद्धेतुरमृतं तु स्याच्छुद्धया जैनवर्त्मनः / चरमे पुद्गलावर्ते तदेवं कर्तृभेदतः / सिद्धमन्यादृशं सर्वं गुरुदेवादिपूजनम् सामान्ययोग्यतैव प्राक् पुंसः प्रववृते किल / तदा समुचिता सा तु संपन्नेति विभाव्यताम् चतुर्थं चरमावर्ते प्रायोऽनुष्ठानमिष्यते / अनाभोगादिभावे तु जातु स्यादन्यथापि हि नन्वद्वेषोऽथवा रागो मोक्षे तद्धेतुतोचितः / आद्ये तत्स्यादभव्यानामन्त्ये न स्यात्तदद्विषाम् .. // 12 // // 14 // // 15 // // 16 // // 17 // 16