________________ // 15 // // 16 // // 17 // . // 18 // // 19 // // 20 // अविरुद्धकुलाचारपालनं मितभाषिता / . अपि कण्ठगतैः प्राणैरप्रवृत्तिश्च गर्हिते प्रधानकार्यनिर्बन्धः सद्व्ययोऽसद्व्ययोज्झनम् / लोकानुवृत्तिरुचिता प्रमादस्य च वर्जनम् तपश्चान्द्रायणं कृच्छं मृत्युघ्नं पापसूदनम् / आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् एकैकं वर्धयेद् ग्रासं 'शुक्ले कृष्णे च हापयेत् / भुञ्जीत नामावास्यायामेष चान्द्रायणो विधि: सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा / अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् मासोपवासमित्याहुर्मृत्युनं तु तपोधनाः / मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया / चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् मोक्षः कर्मक्षयो नाम भोगसंक्लेशवर्जितः / . तत्र द्वेषो दृढाज्ञानादनिष्टप्रतिपत्तितः भवाभिनन्दिनां सा च भवशर्मोत्कटेच्छया / श्रूयन्ते चैतदालापा लोके शास्त्रेऽप्यसुन्दराः . मदिराक्षी न यत्रास्ति तारुण्यमदविह्वला / जडस्तं मोक्षमाचष्टे प्रिया स इति नो मतम् वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् / न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ! द्वेषोऽयमत्यनाय तदभावस्तु देहिनाम् / भवानुत्कटरागेण सहजाल्पमलत्वतः ' 164 // 21 // // 22 // // 23 // // 24 // // 25 // // 26 //