________________ // 3 // // 4 // // 5 // // 7 // // 8 // पूजनं चास्य नमनं त्रिसन्ध्यं पर्युपासनम् / अवर्णाश्रवणं नामश्लाघोत्थानासनार्पणे सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता / स्वपुमर्थमनाबाध्य साराणां च निवेदनम् तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेभिया / तदासनाद्यभोगश्च तद्बिम्बस्थापनार्चने देवानां पूजनं ज्ञेयं शौचश्रद्धादिपूर्वकम् / पुष्पैविलेपनैधूपैनैवेद्यैः शोभनैः स्तवैः अधिमुक्तिवशान्मान्या अविशेषेण वा सदा / अनिर्णीतविशेषाणां सर्वे देवा महात्मनाम् सर्वान् देवान्नमस्यन्ति नैकं देवं समाश्रिताः / चितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते चारिसञ्जीविनीचारन्यायादेवं फलोदयः / / मार्गप्रवेशरूपः स्याद्विशेषेणादिकर्मणाम् . अधिज्ञातविशेषाणां विशेषेऽप्येतदिष्यते / स्वस्य वृत्तविशेषेऽपि परेषु द्वेषवर्जनात् नातुरापथ्यतुल्यं यद्दानं तदपि चेष्यते / पात्रे दीनादिवर्गे च पोष्यवर्गाविरोधतः लिङ्गिनः पात्रमपचा विशिष्य स्वक्रियाकृतः / दीनान्धकृपणादीनां वर्गः कार्यान्तराक्षमः सुदाक्षिण्यं दयालुत्वं दीनोद्धारः कृतज्ञता / * जनापवादभीरुत्वं सदाचाराः प्रकीर्तिताः रागों गुणिनि सर्वत्र निन्दात्यागस्तथापदि / .. अदैन्यं सत्प्रतिज्ञत्वं संपत्तावपि नम्रता . 173 // 9 // // 10 // // 11 // // 12 // // 13 // - // 14 //