________________ सत्त्वादीनामपि स्वाङ्गिन्युपकारोपपत्तितः / . बुद्धिर्नामैव पुंसस्तत् स्याच्च तत्त्वान्तरव्ययः व्यापारभेदादेकस्य वायोः पञ्चविधत्ववत् / अहंकारादिसंज्ञानोपपत्तिसुकरत्वतः // 25 // पुंसश्च व्यञ्जकत्वेऽपि कूटस्थत्वमयुक्तिमत् / अधिष्ठानत्वमेतच्चेत्तदेत्यादि.निरर्थकम् // 26 // निमित्तत्वेऽपि कौटस्थ्यमथास्यापरिणामतः / स्याद्भेदो धर्मभेदेन तथापि भवमोक्षयोः' प्रसङ्गतादवस्थ्यं च बुद्धर्भेदेऽपि तत्त्वतः / प्रकृत्यन्ते लये मुक्तेर्न चेदव्याप्यवृत्तिता प्रधानभेदे चैतत्स्यात्कर्म बुद्धिगुणः पुमान् / स्याध्रुवश्चाध्रुवश्चेति जयताज्जैनदर्शनम् // 29 // तथा च कायरोधादावव्याप्तं प्रोक्तलक्षणम् / एकाग्रतावधौ रोधे वाच्ये च प्राचि चेतसि // 30 // योगारम्भोऽथ विक्षिप्ते व्युत्थानं क्षिप्तमूढयोः / एकाग्रे च निरुद्धे च समाधिरिति चेन्न तत् . // 31 // योगारम्भेऽपि योगस्य निश्चयेनोपपादनात् / मदुक्तं लक्षणं तस्मात्परमानन्दकृत् सताम् पूर्वसेवाद्वात्रिंशिका // 12 // पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् / सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः माता पिता कलाचार्य एतेषां ज्ञातयस्तथा / वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः 12