________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // प्रकृतेरपि चैकत्वे मुक्तिः सर्वस्य नैव वा / जडायाश्च पुमर्थस्य कर्तव्यत्वमयुक्तिमत् ननु चित्तस्य वृत्तीनां सदा ज्ञाननिबन्धनात् / चिच्छायासंक्रमाद्धेतोरात्मनोऽपरिणामिता स्वाभासं खलु नो चित्तं दृश्यत्वेन घटादिवत् / तदन्यदृश्यतायां चानवस्थास्मृतिसंकरौ अङ्गाङ्गिभावचाराभ्यां चितिरप्रतिसंक्रमा / द्रष्टदृश्योपरक्तं तच्चित्तं सर्वार्थगोचरम् नित्योदिता त्वभिव्यङ्ग्या चिच्छक्तिद्धिविधा हि नः / आद्या पुमान् द्वितीया तु सत्त्वे तत्सन्निधानतः सत्त्वे पुंस्थितचिच्छायासमाऽन्या तदुपस्थितिः / प्रतिबिम्बात्मको भोगः पुंसि भेदाग्रहादयम् इत्थं प्रत्यात्मनियतं बुद्धितत्त्वं हि शक्तिमत् / निर्वाहे लोकयात्रायास्तप्तः क्वातिप्रसञ्जनम् कर्तव्यत्वं पुमर्थस्यानुलोम्यप्रातिलोम्यतः / प्रकृतौ परिणामानां शक्ती स्वाभाविके उभे न चैवं मोक्षशास्त्रस्य वैयर्थ्यं प्रकृतेर्यतः / ततो दु:खनिवृत्त्यर्थं कर्तृत्वस्मयवर्जनम् व्यक्तं कैवल्यपादेऽदः सर्वं साध्विति चेन्न तत् / इत्थं हि प्रकृतेर्मोक्षो न पुंसस्तददो वृथा * पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः / जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः बुद्ध्या सर्वोपपत्तौ च मानमात्मनि मृग्यते / संहत्यकारिता मानं पारार्थ्यनियता च न // 18 // // 20 // // 21 // // 22 // // 23 // . 11