________________ // 4 // पातञ्जलयोगलक्षणविचारद्वात्रिंशिका // 11 // चित्तवृत्तिनिरोधं तु योगमाह पतञ्जलिः / द्रष्टुः स्वरूपावस्थानं यत्र स्यादविकारिणि आपन्ने विषयाकारं यत्र चेन्द्रियवृत्तितः / पुमान् भाति तथा चन्द्रश्चलनीरे चलन् यथा तच्चित्तं वृत्तयस्तस्य पञ्चतय्यः प्रकीर्तिताः / मानं भ्रमो विकल्पश्च निद्रा च स्मृतिरेव चं मानं ज्ञानं यथार्थं स्यादतस्मिंस्तन्मतिभ्रमः / पुंसश्चैतन्यमित्यादौ विकल्पोऽवस्तुशाब्दधी: निद्रा च वासनाभावप्रत्ययालम्बना स्मृता / सुखादिविषया वृत्तिर्जागरे स्मृतिदर्शनात् ' तथानुभूतविषयासंप्रमोषः स्मृतिः स्मृता / आसां निरोधः शक्त्यान्तःस्थितिहेतो. बहिर्हतिः स चाभ्यासाच्च वैराग्यात्तत्राभ्यास: स्थितौ श्रमः / दृढभूमिः स च चिरं नैरन्तर्यादराश्रितः या वशीकारसंज्ञा स्यादृष्टानुश्रविकार्थयोः / . वितृष्णस्यापरं तत् स्याद्वैराग्यमनधीनता // 8 // तत्परं जातपुंख्यातेर्गुणवैतृष्ण्यसंज्ञकम् / बहिर्वैमुख्यमुत्पाद्य वैराग्यमुपयुज्यते // 9 // निरोधे पुनरभ्यासो जनयन् स्थिरतां दृढाम् / परमानन्दनिष्यन्दशान्तश्रोतः प्रदर्शनात् // 10 // न चैतद्युज्यते किञ्चिदात्मन्यपरिणामिनि / .. कूटस्थे स्यादसंसारोऽमोक्षो वा तत्र हि ध्रुवम् // 11 // // 6 // // 7 // 160