________________ // 22 // // 23 // // 24 // .. // 26 // पुरुषाभिभवः कश्चित्तस्यामपि हि हीयते / युक्तं तेनैतदधिकमुपरिष्टाद्भणिष्यते / भावस्य मोक्षहेतुत्वं तेन मोक्षे व्यवस्थितम् / तस्यैव चरमावर्ते क्रियाया अपि योगतः रसानुवेधात्ताम्रस्य हेमत्वं जायते यथा / क्रियाया अपि सम्यक्त्वं तथा भावानुवेधतः भावसात्म्येऽत एवास्या भङ्गेऽपि व्यक्तमन्वयः / सुवर्णघटतुल्यां तां ब्रुवते सौगता अपि शिरोदकसमो भावः क्रिया च खननोपमा / भावपूर्वादनुष्ठानाद्भाववृद्धिरतो ध्रुवा मण्डूकचूर्णसदृशः क्लेशध्वंस: क्रियाकृतः / . तद्भस्मसदृशस्तु स्याद्भावपूर्वक्रियाकृतः विचित्रभावद्वारा तत् क्रिया हेतुः शिवं प्रति / अस्या व्यञ्जकताप्येषा परा ज्ञाननयोचिता. व्यापारश्चिद्विवर्तत्वाद्वीर्योल्लासाच्च स स्मृतः / विविच्यमाना भिद्यन्ते परिणामा हि वस्तुनः जीवस्थानानि सर्वाणि गुणस्थानानि मार्गणाः / परिणामा विवर्तन्ते जीवस्तु न कदाचन उपाधिः कर्मणैव स्यादाचारादौ श्रुतं ह्यदः / विभावानित्यभावेऽपि ततो नित्यस्वभाववान् . द्रव्यादेः स्यादभेदेऽपि शुद्धभेदनयादिना / इत्थं व्युत्पादनं युक्तं नयसारा हि देशना योगलक्षणमित्येवं जानानो जिनशासने / परोक्तानि परीक्षेत परमानन्दबद्धधीः - 150 // 28 // // 29 // // 30 // . // 31 // // 32 //