________________ // 9 // // 10 // // 11 // // 13 // // 14 // अनाभोगवतः सापि धर्माहानिकृतो वरम् / . शुभा तत्त्वेन नैकापि प्रणिधानाद्यभावतः प्रणिधानं प्रवृत्तिश्च तथा विघ्नजयस्त्रिधा / सिद्धिश्च विनियोगश्च एते कर्मशुभाशयाः प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् / परोपकारसारं च चित्तं पापविवजितम् प्रवृत्तिः प्रकृतस्थाने यत्नातिशयसंभवा / अन्याभिलाषरहिता चेत:परिणति: स्थिरा बाह्यान्तर्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः / कण्टकज्वरमोहानां जयैर्विघ्नजयः समः सिद्धिस्तात्त्विकधर्माप्तिः साक्षादनुभवात्मिका / कृपोपकारविनयान्विता हीनादिषु क्रमात् अन्यस्य योजनं धर्मे विनियोगस्तदुत्तरम् / कार्यमन्वयसंपत्त्या तदवन्ध्यफलं मतम् एतैराशययोगैस्तु विना धर्माय न क्रिया / प्रत्युत प्रत्यपायाय लोभक्रोधक्रिया यथा तस्मादचरमावर्तेष्वयोगो योगवर्त्मनः / योग्यत्वेऽपि तृणादीनां घृतत्वादेस्तदा यथा नवनीतादिकल्पस्तच्चरमावर्त इष्यते / अत्रैव विमलो भावो गोपेन्द्रोऽपि यदभ्यधात् अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि / न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासापि प्रवर्तते साधिकारप्रकृतिमत्यावर्ते हि नियोगतः / पथ्येच्छेव न जिज्ञासा क्षेत्ररोगोदये भवेत् 158 .. // 15 // . // 17 // // 18 // // 19 // // 20 //