________________ धर्मव्यवस्थाद्वात्रिंशिका // 7 // भक्ष्याभक्ष्यविवेकाच्च गम्यागम्यविवेकतः / तपोदयाविशेषाच्च स धर्मो व्यवतिष्ठते // 1 // भक्ष्यं मांसमपि प्राह कश्चित्प्राण्यङ्गभावतः / ओदनादिवदित्येवमनुमानपुरःसरम् // 2 // स्वतन्त्रसाधनत्वेऽदोऽयुक्तं दृष्टान्तदोषतः / प्रसङ्गसाधनत्वेऽपि बाधकत्वाद्व्यवस्थितेः // 3 // व्यवस्थितं हि गोः पेयं क्षीरादि रुधिरादि न / न्यायोऽत्राप्येष नो चेत्स्याद्भिक्षुमांसादिकं तथा // 4 // प्राण्यङ्गत्वादभक्ष्यत्वं न हि मांसे मतं च नः / जीवसंसक्तिहेतुत्वात् किं तु तद्गर्हितं बुधैः . // 5 // पच्यमानामपक्वासु मांसपेसीषु सर्वथा / तन्त्रे निगोदजीवानामुत्पत्तिर्भणिता जिनैः / सूत्राणि कानिचिच्छेदोपभोगादिपराणि तु / अमद्यमांसाशितया न हन्यन्ते प्रसिद्धया न प्राण्यङ्गसमुत्थं चेत्यादिना वोपि वारितम् / लङ्कावतारसूत्रादौ तदित्येतद्वथोदितम् // 8 // न मांसभक्षणे दोषो न मद्ये न च मैथुने. / प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला // 9 // भक्ष्यं मांसं परः प्राहानालोच्य वचनादतः / जन्मान्तरार्जनाद्दुष्टं न चैतद्वेद यत्स्मृतम् // 10 // . मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् / एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः // 11 // // 7 // . 140