________________ // 22 // // 23 // // 24 // // 25 // // 26 // वैराग्यं च स्मृतं दुःखमोहज्ञानान्वितं त्रिधा / आर्तध्यानाख्यमाद्यं स्याद्यथाशक्त्यप्रवृत्तितः अनिच्छा ह्यत्र संसारे स्वेच्छालाभादनुत्कट / नैर्गुण्यदृष्टिजं द्वेषं विना चित्ताङ्गखेदकृत् . एकान्तात्मग्रहोद्भूतभवनैर्गुण्यदर्शनात् / शान्तस्यापि द्वितीयं सज्ज्वरानुद्भवसन्निभम् स्याद्वादविद्यया ज्ञात्वा बद्धानां कष्टमङ्गिनाम् / तृतीयं भवभीभाजां मोक्षोपायप्रवृद्धिमत् सामग्र्यं स्यादनेनैव द्वयोस्तु स्वोपमर्दतः / अत्राङ्गत्वं कदाचित्स्याद्गुणवत्पारतन्त्र्यतः भावशुद्धिरपि न्याय्या न मार्गाननुसारिणी / अप्रज्ञाप्यस्य बालस्य विनैतत्स्वाग्रहात्मिका मोहानुत्कर्षकृच्चैतदत एवापि शास्त्रवित् / क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु .. यस्तु नान्यगुणान् वेद न वा स्वगुणदोषवित् / स एवैतन्नाद्रियते न त्वासन्नमहोदयः . गुणवबहुमानाद्यः कुर्यात्प्रवचनोन्नतिम् / अन्येषां दर्शनोत्पत्तेस्तस्य स्यादुन्नतिः परा यस्तु शासनमालिन्येऽनाभोगेनापि वर्तते / बघ्नाति स तु मिथ्यात्वं महानर्थनिबन्धनम् स्वेच्छाचारे च बालानां मालिन्यं मार्गबाधया / गुणानां तेन सामग्र्यं गुणवत्पारतन्त्र्यतः इत्थं विज्ञाय मतिमान् यतिर्गीतार्थसङ्गकृत् / . त्रिधाशुद्ध्याचरन् धर्मं परमानन्दमश्नुते // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // 148