________________ = = // 10 // = = = // 11 // // 12 // = = = // 14 // = त्रिधा भिक्षापि तत्राद्या सर्वसंपत्करी मता / द्वितीया पौरुषघ्नी स्यावृत्तिभिक्षा तथान्तिमा सदानारम्भहेतुर्या सा भिक्षा प्रथमा स्मृता / एकबाले द्रव्यमुनौ सदानारम्भिता पुनः दीक्षाविरोधिनी भिक्षा पौरुषघ्नी प्रकीर्तिता / धर्मलाघवमेव स्यात्तया पीनस्य जीवतः क्रियान्तरासमर्थत्वप्रयुक्ता वृत्तिसंज्ञिका / दीनान्धादिष्वियं सिद्धपुत्रादिष्वपि केषुचित् अन्याबाधेन सामग्र्यं मुख्यया भिक्षयालिवत् / गृह्णतः पिण्डमकृतमकारितमकल्पितम् नन्वेवं सद्गृहस्थानों गृहे भिक्षा न युज्यते / अनात्मम्भरयो यत्र स्वपरार्थं हिं कुर्वते संकल्पभेदविरहो विषयो यावदर्थिकम् / / पुण्यार्थिकं च वदता दुष्टमत्र हि दुर्वचः . उच्यते विषयोऽत्रायं भिन्ने देये स्वभोग्यतः / संकल्पनं क्रियाकाले दुष्टं पुष्टमियत्तया स्वोचिते तु तदारम्भे निष्ठिते नाविशुद्धिमंत् / तदर्थकृतिनिष्ठाभ्यां चतुर्भङ्ग्यां द्वयोर्ग्रहात् प्राय एवमलाभ: स्यादिति चेद्बहुधाप्ययम् / संभवीत्यत एवोक्तो यतिधर्मोऽतिदुष्करः संकल्पितस्य गृहिणा त्रिधाशुद्धिमतो ग्रहे / को दोषः इति चेज्ज्ञाते प्रसङ्गात्पापवृद्धितः यत्यर्थं गृहिणश्चेष्टा प्राण्यारम्भप्रयोजिका / यतेस्तद्वर्जनोपायहीना सामग्र्यघातिनी // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // 140.