________________ . अन्यत्रारम्भवान् यस्तु तस्यात्रारम्भशङ्किनः / अबोधिरेव परमा विवेकौदार्यनाशतः / यच्च धर्मार्थमित्यादि तदपेक्ष्य दशान्तरम् / संकाशादेः किल श्रेयस्युपेत्यापि प्रवृत्तितः पूजया परमानन्दमुपकारं विना कथम् / ददाति पूज्य इति चेच्चिन्तामण्यादयो यथा // 31 // // 32 // . साधुसामग्र्यद्वात्रिंशिका // 6 // .. ज्ञानेन ज्ञानिभावः स्याद्भिक्षुभावश्च भिक्षया / वैराग्येण विरक्तत्वं संयतस्य महात्मनः विषयप्रतिभासाख्यं तथात्मपरिणामवत् / . तत्त्वसंवेदनं चेति त्रिधा ज्ञानं प्रकीर्तितम् // 2 // आद्यं मिथ्यादृशां मुग्धरत्नादिप्रतिभासवत् / अज्ञानावरणापायाग्राह्यत्वाद्यविनिश्चयम् // 3 // भिन्नग्रन्थेद्वितीयं तु ज्ञानावरणभेदजम् / .. श्रद्धावत्प्रतिबन्धेऽपि कर्मणा सुखदुःखयुक् स्वस्थवृत्तेस्तृतीयं तु सज्ज्ञानावरणव्ययात् / साधोविरत्यवच्छिन्नमविघ्नेन फलप्रदम् निष्कम्पा च सकम्पा च प्रवृत्तिः पापकर्मणि / निरवद्या च सेत्याहुलिङ्गान्यत्र यथाक्रमम् जातिभेदानुमानाय व्यक्तीनां वेदनात् स्वतः / तेन कर्मान्तरात् कार्यभेदेऽप्येतद्भिदाऽक्षता // 7 // योगादेवान्त्यबोधस्य साधुः सामग्र्यमश्नुते / अन्यथाकर्षगामी स्यात् पतितो वा न संशयः // 8 // // 4 // 146