________________ // 12 // // 13 // // 14 // . // 16 // // 17 // निषेधः शास्त्रबाह्योऽस्तु विधिः शास्त्रीयगोचरः / दोषो विशेषतात्पर्यान्नन्वेवं न यतः स्मृतम् प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया / यथाविधि नियुक्तस्तु प्राणानामेव चात्यये नैतन्निवृत्त्ययोगेन तस्याः प्राप्तिनियन्त्रणात् / . प्राप्ता चास्य निषेधेन यत एतदुहाहृतम् . यथाविधि नियुक्तस्तु यो मांसं नात्ति वै द्विजः / स प्रेत्य पशुतां याति संभवानेकविंशतिम् अधिकारपरित्यागात् पारिव्राज्येऽस्तु तत्फलंम् / इति चेत्तदभावे नादुष्टतेत्यपि संकटम् मद्येऽपि प्रकटो दोषः श्रीह्रीनाशादिरैहिकः / सन्धानजीवमिश्रत्वान्महानामुष्मिकोऽपि च नियमेन सरागत्वाद्दष्टं मैथुनमप्यहो / मूलमेतदधर्मस्य निषिद्धं योगिपुङ्गवैः धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः / ऋतुकाले न तद्दुष्टं क्षुधादाविव भोजनम् . नैवमित्थं स्वरूपेण दुष्टत्वान्निबिडापदि / श्वमांसभक्षणस्येवापवादिकनिभत्वतः वेदं ह्यधीत्य स्नायाद्यत्तत्रैवाधीत्यसङ्गतः / व्याख्यातस्तदसावर्थो ब्रूते हीनां गृहस्थताम् अदोषकीर्तनादस्य प्रशंसा तदसङ्गता / विध्युक्तेरिष्टसंसिद्धेर्बहुलोकप्रवृत्तितः निवृत्तिः किं च युक्ता भो सावद्यस्येतरस्य वा / आद्ये स्याद्दुष्टता तेषामन्त्ये योगाद्यनादरः . // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // 150