________________ . = .. = . = . = . . = मार्गद्वात्रिंशिका // 3 // मार्गः प्रवर्तकं मानं शब्दो भगवतोदितः / संविग्नाशठगीतार्थाचरणं चेति स द्विधा द्वितीयानादरे हन्त प्रथमस्याप्यनादरः / जीतस्यापि प्रधानत्वं साम्प्रतं श्रूयते यतः अनुमाय सतामुक्ताचारेणागममूलताम् / पथि प्रवर्तमानानां शङ्क्या नान्धपरम्परा, . // 3 // . सूत्रे सद्धेतुनोत्सृष्टमपि क्वचिदपोद्यते / . . हितदेऽप्यनिषिद्धेऽर्थे किं पुनर्नास्य मानता // 4 // निषेधः सर्वथा नास्ति विधिर्वा सर्वथागमे / आय व्ययं च तुलयेल्लांभाकाङ्क्षी वणिग्यथा प्रवाहधारापतितं निषिद्धं यन्न दृश्यते / अत एव न तन्मत्या दूषयन्ति विपश्चितः संविग्नाचरणं सम्यक्कल्पप्रावरणादिकम् / विपर्यस्तं पुनः श्राद्धममत्वप्रभृति स्मृतम् आद्यं ज्ञानात्परं मोहाद्विशेषो विशदोऽनयोः / एकत्वं नानयोर्युक्तं काचमाणिक्ययोरिव // 8 // दर्शयद्भिः कुलाचारलोपादामुष्मिकं भयम् / वारयद्भिः स्वगच्छीयगृहिणः साधुसंगतिम् // 9 // द्रव्यस्तवं यतीनामप्यनुपश्यद्भिरुत्तमम् / विवेकविकलं दानं स्थापयद्भिर्यथा तथा // 10 / / अपुष्टालम्बनोत्सिक्तैर्मुग्धमीनेषु मैनिकैः / इत्थं दोषादसंविग्नैर्हहा विश्वं विडम्बितम् (विशेषकम्) // 11 // = // 7 // = 0 138