________________ // 23 // // 24 // // 25 // = // 26 // = // 27 // वयःक्रमेणाध्ययनश्रवणध्यानसंगतिः / सदाशयेनानुगतं पारतन्त्र्यं गुरोरपि वचनाराधनाद्धर्मोऽधर्मस्तस्य च बाधनात् / धर्मगुह्यमिदं वाच्यं बुधस्य च विपश्चिता इत्थमाज्ञादद्वारा हृदयस्थे जिने सति / भवेत्समरसापत्तिः फलं ध्यानस्य या परम् देशनैकनयाक्रान्ता कथं बालाद्यपेक्षया / इति चेदित्थमेव स्यात्तबुद्धिपरिकर्मणा प्रमाणदेशनैवेयं ततो योग्यतया मता / द्रव्यतः सापि नो मानं वैपरीत्यं यया भवेत् आदौ यथारुचि श्राव्यं ततो वाच्यं नयान्तरम् / ज्ञाते त्वेकनयेऽन्यस्मात् परिशिष्टं प्रदर्शयेत् संविग्नभाविता ये स्युर्ये च पार्श्वस्थभाविताः / मुक्त्वा द्रव्यादिकं तेषां शुद्धोञ्छं तेन दर्शितम् दुर्नयाभिनिवेशे तु तं दृढं दूषयेदपि / दुष्टांशच्छेदतो नाङ्घी दूषयेद्विषकण्टकः जानाति दातुं गीतार्थो य एवं धर्मदेशनाम् / कलिकालेऽपि तस्यैव प्रभावाद्धर्म एधते गीतार्थाय जगज्जन्तुपरमानन्ददायिने / .. मुनये भगवद्धर्मदेशकाय नमो नमः = = // 29 // // 30 // // 31 // // 32 // 137