________________ // 12 // // 13 // // 14 // // 15 // // 17 // अप्येष शिथिलोलापो न श्राव्यो गृहमेधिनाम् / सूक्ष्मोऽर्थ इत्यदोऽयुक्तं सूत्रे तद्गुणवर्णनात् . . तेषां निन्दाल्पसाधूनां बह्वाचरणमानिनाम् / प्रवृत्ताङ्गीकृतात्यागे मिथ्यादृग्गुणदर्शिनी इदं कलिरजः पर्वभस्म भस्मग्रहोदयः / खेलनं तदसंविग्नराजस्यैवाधुनोचितम् समुदाये मनाग्दोषभीतैः स्वेच्छाविहारिभिः / संविग्नैरप्यगीतार्थैः परेभ्यो नातिरिच्यते वदन्ति गृहिणां. मध्ये पार्श्वस्थानामवन्द्यताम् / यथाच्छन्दतयात्मानमवन्द्यं जानते न ते गीतार्थपारतन्त्र्येण ज्ञानमज्ञानिनां मतम् / विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् तत्त्यागेनाफलं तेषां शुद्धोञ्छादिकमप्यहो / विपरीतं फलं वा स्यान्नौभङ्ग इव वारिधौ / अभिन्नग्रन्थयः प्रायः कुर्वन्तोऽप्यतिदुष्करम् / बाह्या इवाव्रता मूढा ध्वाङ्क्षज्ञातेन दर्शिताः वदन्तः प्रत्युदासीनान् पंरुषं परुषाशयाः / विश्वासादाकृतेरेते महापापस्य भाजनम् / ये तु स्वकर्मदोषेण प्रमाद्यन्तोऽपि धार्मिकाः / संविग्नपाक्षिकास्तेऽपि मार्गान्वाचयशालिनः शुद्धप्ररूपणैतेषां मूलमुत्तरसंपदः / / सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनादिकाः आत्मार्थं दीक्षणं तेषां निषिद्धं श्रूयते श्रुते / ज्ञानाद्यर्थान्यदीक्षा च स्वोपसंपच्च नाहिता . 139 // 18 // // 19 // // 20 // // 21 // // 22 // . // 23 //