________________ अश्रान्तभ्रान्तकान्तग्रहगणकिरणैस्तापवान् स्वर्णशैलो भ्राजन्ते ते मुनीन्द्रा नयविजयबुधाः सज्जनवातधुर्याः // 15 // चक्रे प्रकरणमेतत्तत्पदसेवापरो यशोविजयः अध्यात्मधृतरुचीनामिदमानन्दावहं भवतु .... // 16 // // 1 // // 2 // // द्वात्रिंशद्वात्रिंशका // __ दानद्वात्रिंशिका // 1 // ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् / भक्त्या सुपात्रदानं तु मोक्षदं देशित जिनैः अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु संगता / अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पासुखश्रमात् / पृथिव्यादौ जिनार्चादौ यथा तदनुकम्पिनाम् स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम् / तत्रानुकम्पा न मता यथेष्टापूर्तकर्मसु पुष्टालम्बनमाश्रित्य दानशालादिकर्म यत् / तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः बहूनामुपकारेण नानुकम्पानिमित्तताम् / अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः क्षेत्रादिव्यवहारेण दृश्यते फलसाधनम् / निश्चयेन पुनर्भावः केवलः फलभेदकृत् // 3 // // 4 // // 7 // 132