________________ // 8 // // 10 // // 11 // // 12 // // 13 // कालेऽल्पमपि लाभाय नाकाले कर्म बह्वपि / वृष्टौ वृद्धिः कणस्यापि कणकोटिर्वृथाऽन्यथा धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि / अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु साधुनापि दशाभेदं प्राप्यैतदनुकम्पया / दत्तं ज्ञाताद्भगवतो रङ्कस्येव सुहस्तिना न चाधिकरणं ह्येतद्विशुद्धाशयतो मतम् / अपि त्वन्यद्गुणस्थानं गुणान्तरनिबन्धनम् वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः / स औत्सर्गिकतां बिभ्रन्नैतस्यार्थस्य बाधकः ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि संगतः / विहाय विषयो मृग्यो दशाभेदं विपश्चिता नन्वेवं पुण्यबन्धः स्यात्साधोर्न च स इष्यते / पुण्यंबन्धान्यपीडाभ्यां छन्नं भुङ्क्ते यतो यतिः दीनादिदाने पुण्यं स्यात्तददाने च पीडनम् / शक्तौ पीडाप्रतीकारे शास्त्रार्थस्य च बाधनम् किं च दानेन भोगाप्तिस्ततो भवपरम्परा / धर्माधर्मक्षयान्मुक्तिर्मुमुक्षोर्नेष्टमित्यदः नैवं यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः / वर्तेर्दाह्यं विनाश्येव नश्वरत्वात्स्वतो मतः भोगाप्तिरपि नैतस्मादभोगपरिणामतः / मन्त्रितं: श्रद्धया पुंसां जलमप्यमृतायते न च स्वदानपोषार्थमुक्तमेतदपेशलम् / हरिभद्रो ह्यदोऽभाणीद्यतः संविग्नपाक्षिकः // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // 133