________________ उद्दामग्रन्थभावप्रथनभवयशः संचयः सत्कवीनां क्षीराब्धिर्मथ्यते यः सहृदयविबुधैर्मेरुणा वर्णनेन / एतड्डिण्डीरपिण्डीभवति विधुरुचेर्मण्डलं विपुषस्तास्तारा:कैलासशैलादय इह दधते वीचिविक्षोभलीलाम् // 10 // काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्व:सदां पानशङ्की खेदं धत्ते तु मूर्जा मृदुतरहृदयः सज्जनो व्याधुतेन / ज्ञात्वा सर्वोपभोग्यं प्रसृमरमथ तत्कीर्तिपीयूषपूरं नित्यं रक्षापिधानानियतमतितरां मोदते च स्मितेन // 11 // निष्पाद्य श्लोककुम्भं निपुणनयमृदा कुम्भकाराः कवीन्द्रा दाढ्यं चारोप्य तस्मिन् किमपि परिचयात्सत्पीक्षार्कभासाम् / पक्वं कुर्वन्ति बाढं गुणहरणमतिप्रज्वलद्दोषदृष्टिज्वालामालाकराले खलजनवचनज्वालजिह्वे निवेश्य // 12 // इक्षुद्राक्षारसौघः कविजनवचनं दुर्जनस्याग्नियन्त्रानानार्थद्रव्ययोगात्समुपचितमुणो मद्यतां याति सद्यः / सन्तः पीत्वा यदुच्चैर्दधति हृदि मुदं घूर्णयन्त्यक्षियुग्मं स्वैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबन्धम् // 13 // नव्योऽस्माकं प्रबन्धोऽप्यनणुगुणभृतां सज्जनानां प्रभावा . द्विख्यातः स्यादिती मे हितकरणविधौ प्रार्थनीया न किं नः / . निष्णाता वा स्वतस्ते रविरुचय इवाम्भोरुहाणां गुणाना- . मुल्लासेऽपेक्षणीयो न खलु पररुचेः क्वापिं तेषां स्वभावः // 14 // प्रशस्तिः यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृन्दकोलाहलेन प्रक्षुब्धस्वर्गसिन्धोः पतितजलभरैः क्षालितः शैत्यमेति / .. . 131