________________ उत्तानार्थगिरां स्वतोऽप्यवगमान्निःसारतां मेनिरे। गम्भीरार्थसमर्थने बत खलाः काठिन्यदोषं ददुः / तत्को नाम गुणोऽस्तु कश्च सुकविः किं काव्यमित्यादिकां स्थित्युच्छेदमति हरन्ति नियतादृष्ट व्यवस्थाः सताम् // 4 // अध्यात्मामृतवर्षिणीमपि कथामापीय सन्तः सुखं गाहन्ते विषमुद्गिन्ति तु.खला वैषम्यमेतत्कुतः / . नेदं चाद्भुतमिन्दुदीधितिपिबाः प्रीताश्चकोरा भृशं किं न स्युर्बत चक्रवाकतरुणास्त्वत्यन्तखेदातुराः // 5 किंचित्साम्यमवेक्ष्य ये विदधते काचेन्द्रनीलाभिदां तेषां न प्रमदावहा तनुधियां गूढा कवीनां कृतिः / ये जानन्ति विशेषमप्यविषमे रेखोपरेखांशतो वस्तुन्यस्तु सतामितः कृतधियां तेषां महानुत्सवः पूर्णाध्यात्मपदार्थसार्थघटना चेतश्चमत्कारिणी मोहच्छन्नदृशां भवेत्तनुधियां नो पण्डितानामिव / . काकुव्याकुलकामगर्वगहनप्रोद्दामवाक्चातुरी . कामिन्याः प्रसभं प्रमादयति न ग्राम्यान् विदग्धानिव // 7 // स्नात्वा सिद्धान्तकुण्डे विधुकरविशदाध्यात्मपानीयपूरै स्तापं संसारदुःखं कलिकलुषमलं लोभतृष्णां च हित्वा / जाता ये शुद्धरूपाः शमदमशुचिताचन्दनालिप्तगात्राः शीलालङ्कारसाराः सकलगुणनिधीन्सज्जानांस्तान्नमामः // 8 // पाथोदः पद्यबन्धैर्विपुलरसभरं वर्षति ग्रन्थकर्ता प्रेम्णां पूरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवद्भिः / त्रुट्यन्ति स्वान्तबन्धाः पुनरसमगुणद्वेषिणां दुर्जनानां चित्रं भावज्ञनेत्रात् प्रणयरसवशान्निःसरत्यश्रुनीरम् - // 9 // 130