________________ स्तुत्या स्मयो न कार्यः कोपोऽपि च निन्दया जनैः कृतया / सेव्या धर्माचार्यास्तत्त्वं जिज्ञासनीयं च / // 41 // शौचं स्थैर्यमदम्भो वैराग्यं चात्मनिग्रह: कार्यः / दृश्या भवगतदोषाश्चिन्त्यं देहादिवैरूप्यम् // 42 // भक्तिर्भगवति धार्या सेव्यो देशः सदा विविक्तश्च / स्थातव्यं सम्यक्त्वे विश्वास्यो न प्रमादरिपुः // 43 // ध्येयात्मबोधनिष्ठा सर्वत्रैवागमः पुरस्कार्यः / त्यक्तव्याः कुविकल्पाः स्थेयं वृद्धानुवृत्त्या च साक्षात्कार्यं तत्त्वं चिद्रूपानन्दमेदुरैर्भाव्यम् / हितकारी ज्ञानवतामनुभववेद्यः प्रकारोऽयम् // 45 // // 44 // सज्जस्तुत्यधिकारः // 21 // येषां कैरवकुन्दवृन्दशशभृत्कर्पूरशुभ्रा गुणा . मालिन्यं व्यपनीय चेतसि नृणां वैशद्यमातन्वते / सन्तः सन्तु मयि प्रसन्नमनसस्ते केऽपि गौणीकृतस्वार्था मुख्यपरोपकारविधयोऽत्युच्छृङ्खलैः किं खलैः // 1 // ग्रन्थार्थान् प्रगुणीकरोति सुकविर्यत्नेन तेषां प्रथामातन्वन्ति कृपाकटाक्षलहरीलावण्यतः सज्जनाः / माकन्दद्रुममञ्जरी वितनुते चित्रा मधुश्रीस्ततः सौभाग्यं प्रथयन्ति पञ्चमचमत्कारेण पुंस्कोकिला: // 2 // दोषोल्लेखविषः खलाननबिलादुत्थाय कोपाज्ज्वलन् जिह्वाहिर्ननु कं गुणं न गुणिनां बालं क्षयं प्रापयेत् / न स्याच्चेत्प्रबलप्रभावभवनं दिव्यौषधीसन्निधौ शास्त्रार्थोपनिषद्विदां शुभहृदां कारुण्यपुण्यप्रथा // 3 // - 129