________________ आलम्ब्यैकपदार्थं यदा न किञ्चिद्विचिन्तयेदन्यत् / अनुपनतेन्धनवह्निवदुपशान्तं स्यात्तदा चेतः / // 17 // शोकमदमदनमत्सरकलहकदाग्रहविषादवैराणि / क्षीयन्ते शान्तहृदामनुभव एवात्र साक्षी नः // 18 // शान्ते मनसि ज्योतिः प्रकाशते शान्तमात्मनः सहजम् / भस्मीभवत्यविद्या मोहध्वान्तं विलयमेति // 19 // बाह्यात्मनोऽधिकारः शान्तहदामन्तरात्मनां न स्यात् / परमात्मानुध्येयः सन्निहितो ध्यानतो भवति // 20 // कायादिर्बहिरात्मा तदधिष्ठातान्तरात्मतामेति / गतनि:शेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः // 21 // विषयकषायावेशः तत्त्वाश्रद्धा गुणेषु च द्वेषः / आत्माज्ञानं च यदा बाह्यात्मा स्यात्तदा व्यक्तः // 22 // तत्त्वश्रद्धा ज्ञानं महाव्रतान्यप्रमादपरता च / . मोहजयश्च यदा स्यात् तदान्तरात्मा भवेद्व्यक्तः // 23 // ज्ञानं केवलसंज्ञं योगनिरोधः समग्रकर्महतिः / सिद्धिनिवासश्च यदा परमात्मा स्यात्तदा व्यक्तः // 24 // आत्ममनोगुणवृत्ती विविच्य यः प्रतिपदं विजानाति / कुशलानुबन्धयुक्तः प्राप्नोति ब्रह्मभूयमसौ // 25 // ब्रह्मस्थो ब्रह्मज्ञो ब्रह्म प्राप्नोति तत्र किं चित्रम् / ब्रह्मविदां बचसापि ब्रह्मविलासाननुभवामः // 26 // ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदभावैः / येनाप्तं तत् पूर्णं योगी स ब्रह्मणः परमः . ध्येयोऽयं सेव्योऽयं कार्या भक्तिः सुकृतधियाऽस्यैव / .. अस्मिगुरुत्वबुद्ध्या सुतरः संसारसिन्धुरपि // 28 // 120