________________ क्रोधादिभिर्नियमितं विरुद्धकृत्येषु यत्तमोभूम्ना / कृत्याकृत्यविभागासंगतमेतन्मनो मूढम् सत्वोद्रेकात्परिहृतदुःखनिदानेषु सुखनिदानेषु / शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्तम् अद्वेषादिगुणवतां नित्यं खेदादिदोषपरिहारात् / सदृशप्रत्ययसंगतमेकाग्रं चित्तमाम्नातम् // 7 // उपरतविकल्पवृत्तिकमवग्रहादिक्रमच्युतं शुद्धम् / आत्माराममुनीनां भवति निरुद्धं सदा चेतः // 8 // न समाधावुपयोगं तिस्रश्चेतोदशा इह लभन्ते / सत्वोत्कर्षात् स्थैर्यादुभे समाधिसुखातिशयात् योगारम्भस्तु भवेद्विक्षिप्त मनसि जातु सानन्दे / क्षिप्ते मूढे चास्मिन् व्युत्थानं भवति नियमेन // 10 // विषयकषायनिवृत्तं योगेषु च संचरिष्णु विविधेषु / गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे . // 11 // वचनानुष्ठानगतं यातायातं च सातिचारमपि / चेतोऽभ्यासदशायां गजाङ्कुशन्यायतोऽदुष्टम् // 12 // ज्ञानविचाराभिमुखं यथा यथा भवति किमपि सानन्दम् / अर्थैः प्रलोभ्य बाबैरनुगृह्णीयात्तथा चेतः // 13 // अभिरूपजिनप्रतिमां विशिष्टपदवाक्यवर्णरचनां च / पुरुषविशेषादिकमप्यत एवालम्बनं ब्रुवते // 14 // आलम्बनैः प्रशस्तैः प्रायो भावः प्रशस्त एव यतः / . इति सालम्बनयोगी मनः शुभालम्बनं दध्यात् // 15 // सालम्बनं क्षणमपि क्षणमपि कुर्यान्मनो निरालम्बम् / . इत्यनुभवपरिपाकादाकालं स्यान्निरालम्बम् 126